अधिदेवताओंकी स्थापना
(हाथमें अक्षत-पुष्प लेकर निम्न मन्त्रोंको पढते हुए चित्रानुसार नियत स्थानोंपर अधिदेवताओंके आवाहन-स्थापनपूर्वक अक्षत-पुष्पोंको छोडता जाय) ।
1-: ईश्वर (सूर्यके दायें भागमें) आवाहन व स्थापना
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्
॥
एह्वेहि विश्वेश्वर नस्त्रिशूलकपालखट्वाड्गधरेण सार्धम् ।
लोकेश यक्षेश्वर यज्ञसिद्धयै गृहाण पूजां भगवन् नमस्ते ॥
ॐ भूर्भव: स्व: ईश्वराय नम:, ईश्वरमावाहयामि, स्थापयामि ।
2-: उमा (चन्द्रमाके दायें भागमें) आवाहन व स्थापना
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रुपमश्विनौ व्यात्तम् । इष्णान्निषाणामुं म इषाण सर्वलोकं
म इषाण ।
हेमाद्रितनयां देवीं वरदां शड्करप्रियाम् ।
लम्बोदरस्य जननीमुमामावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: उमायै नम:, उमामावाहयामि, स्थापयामि ।
3-: स्कन्द (मंगलके दायें भागमें) आवाहन व स्थापना
ॐ यदक्रन्द: प्रथमं
जायमान उद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥
रुद्रतेज: समुत्पन्नं देवसेनाग्रगं विभुम् ।
षण्मुखं कृत्तिकासृनुं स्कन्दमावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: स्कन्दाय नम:, स्कन्दमावाहयामि, स्थापयामि ।
4-: विष्णु (बुधके दायें भागमें) आवाहन व स्थापना
ॐ विष्णो रराटमसि विष्णो: श्नप्त्रे स्थो विष्णो: स्यूरसि विष्णोर्ध्रुवोऽसि । वैष्णवमसि विष्णवे
त्वा ॥
देवदेवं जगन्नाथं भक्तानुग्रहकारकम् ।
चतुर्भुजं रमानाथं विष्णुमावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: विष्णवे नम:, विष्णुमावाहयामि, स्थापयामि ।
5-: ब्रह्मा (बृहस्पतिके दायें भागमें) आवाहन व स्थापना
ॐ आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्य: शूर इषव्योऽतिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशु: सप्ति: पुरन्धिर्योषा जिष्णू रथेष्ठा: सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे न: पर्जन्यो वर्षतु फलवत्यो न ओषधय: पच्यन्तां योगक्षेमो न: कल्पताम् ॥
कृष्णाजिनाम्बरधरं पद्मसंस्थं चतुर्मुखम् ।
वेदाधारं निरालम्बं विधिमावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: ब्रह्मणे नम:, ब्रह्माणमावाहयामि, स्थापयामि ।
6-: इन्द्र (शुक्रके दायें भागमें) आवाहन व स्थापना
ॐ सजोषा इन्द्र
सगणो मरुद्धि: सोमं पिब वृत्रहा शूर विद्वान् । जहि शत्रूँ२रप मृधो नुदस्वाथाभयं कृणुहि विश्वतो न: ।
देवराजं गजारुढं शुनासीरं शतक्रतुम् ।
वज्रहस्तं महाबाहुमिन्द्रमावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: इन्द्राय नम:, इन्द्रमावाहयामि, स्थापयामि ।
7-: यम (शनिके दायें भागमें) आवाहन व स्थापना
ॐ यमाय त्वांऽगिरस्वते पितृमते
स्वाहा । स्वाहा घर्माय
स्वाहा घर्म: पित्रे ॥
धर्मराजं महावीर्यं दक्षिणादिक्पतिं प्रभुम् ।
रक्तेक्षणं महाबाहुं यममावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: यमाय नम:, यममावाहयामि, स्थापयामि ।
8-: काल (राहुके दायें भागमें) आवाहन व स्थापना –
ॐ कार्षिरसि समुद्रस्य त्वा क्षित्या उन्नयामि । समापो अद्भिरग्मत समोषधीभिरोषधी: ॥
अनाकारमनन्ताख्यं वर्तमानं दिने दिने ।
कलाकाष्ठादिरुपेण कालमावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: कालाय नम:, कालमावाहयामि, स्थापयामि ।
9-: चित्रगुप्त (केतुके दायें भागमें) आवाहन व स्थापना
ॐ चित्रावसो स्वस्ति
ते पारमशीय ।
धर्मराजसभासंस्थं कृताकृतविवेकिनम् ।
आवाहये चित्रगुप्तं लेखनीपत्रहस्तकम् ॥
ॐ भूर्भव: स्व: चित्रगुप्ताय नम:, चित्रगुप्तमावाहयामि, स्थापयामि ।
प्रत्यधि देवताओंका स्थापन
बायें हाथमें अक्षत लेकर दाहिने हाथसे नवग्रहोंके बायें भागमें मन्त्रको उच्चारण करते हुए चित्रानुसार नियत स्थानोंपर अक्षत छोडते हुए एक-एक प्रत्यधिदेवताका आवाहन-स्थापन करे -
1-: अग्नि (सूर्यके बायें भागमें) आवाहन व स्थापना
ॐ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । देवाँ २ आ सादयादिह ॥
रक्तमाल्याम्बरधरं रक्तपद्मासनस्थितम् ।
वरदाभयदं देवमग्निमावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: अग्नये नम:, अग्निमावाहयामि,स्थापयामि ।
2-: अप् (जल) (चन्द्रमाके बायें भागमें) आवाहन व स्थापना
ॐ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
आदिदेवसमुद्भूतजगच्छुद्धिकरा: शुभा: ।
ओषध्याप्यायनकरा अप आवाहयाम्यहम् ॥
ॐ भूर्भव: स्व: अद्भ्यो नम:, अप आवाहयामि, स्थापयामि ॥
3-: पृथ्वी (मंगलके बायें भागमें) आवाहन व स्थापना
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा न: शर्म सप्रथा: ॥
शुक्लवर्णां विशालाक्षीं कूर्मपृष्ठोपरिस्थिताम् ।
सर्वशस्याश्रयां देवीं धरामावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: पृथिव्यै नम:, पृथिवीमावाहयामि, स्थापयामि ।
4-: विष्णु (बुधके बायें भागमें) आवाहन व स्थापना
ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पा सुरे स्वाहा ॥
शडखचक्रगदापद्महस्तं गरुडवाहनम् ।
किरीटकुण्डलधरं विष्णुमावायाम्यहम् ॥
ॐ भूर्भव: स्व: विष्णवे नम:, विष्णुमावाहयामि, स्थापयामि ।
5-: इन्द्र (बृहस्पतिके बायें भागमें) आवाहन व स्थापना
ॐ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञ: पुर एतु सोम: ।देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥
ऐरावतगजारुढं सहस्त्राक्षं शचीपतिम् ।
वज्रहस्तं सुराधीशमिन्द्रमावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: इन्द्राय नम:, इन्द्रमावाहयामि, स्थापयामि ।
6-: इन्द्राणी ( शुक्रके बायें भागमें ) आवाहन व स्थापना
ॐ अदित्यै रास्नाऽसीन्द्राण्या उष्णीष: । पूषाऽसि घर्माय दीष्व ॥
प्रसन्नवदनां देवीं देवराजस्य वल्लभाम् ।
नानालडकारसंयुक्तां शचीमावाहयाम्यहम् ॥
ॐ भूर्भव: स्व: इन्द्राण्यै नम:, इन्द्राणीमावाहयामि, स्थापयामि ।
7-: प्रजापति (शनिके बायें भागमें) आवाहन व स्थापना
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रुपाणि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम पतयो रयीणाम् ॥
आवाहयाम्यहं देवदेवेशं च प्रजापतिम् ।
अनेकव्रतकर्तारं सर्वेषां च पितामहम् ॥
ॐ भूर्भव: स्व: प्रजापतये नम:, प्रजापतिमावाहयामि, स्थापयामि ।
8-: सर्प (राहुके बायें भागमें) आवाहन व स्थापना
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्य: सर्पेभ्यो नम: ॥
अनन्ताद्यान् महाकायान् नानामणिविराजितान् ।
आवाहयाम्यहं सर्पान् फणासप्तकमण्डितान् ॥
ॐ भूर्भव: स्व: सर्पेभ्यो नम:, सर्पानावाहयामि, स्थापयामि ।
9-: ब्रह्मा (केतुके बायें भागमें) आवाहन व स्थापना
ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमत: सुरुचो वेन आव: ।स बुध्न्या उपमा अस्य विष्ठा: सतश्च योनिमसतश्च विव: ॥
हंसपृष्ठसमारुढं देवतागणपूजितम् ।
आवाहयाम्यहं देवं ब्रह्माणं कमलासनम् ॥
ॐ भूर्भव: स्व: ब्रह्मणे नम:, ब्रह्माणमावाहयामि, स्थापयामि ।
हाथ में अक्षत पुष्प लेकर निम्न मंत्र
से अधिदेवता तथा प्रत्यधिदेवताओं की प्रतिष्ठा करें
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥
ॐ अधिदेवता-प्रत्यधिदेवता
सुप्रतिष्ठिता वरदा भवन्तु। ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः।
प्रतिष्ठा के लिए हाथ में लिए हुए चावल और पुष्प अधिदेवता-प्रत्यधिदेवता के ऊपरचढ़ा दे
अब विधिवत अनुसार अधिदेवता-प्रत्यधिदेवता का षोडशोपचार पूजन करें
पद्य के लिए जल चढायें-: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, पादयोः पाद्यं समर्पयामि।
अर्घ्य के लिए जल चढायें -: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः,
हस्तयोरर्घ्यम् समर्पयामि।
स्नान के लिए जल चढायें -: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः,
स्नानीयं जलं समर्पयामि।
आचमन के लिए जल चढायें -: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः,
स्नानान्ते आचमनीयं जलं
समर्पयामि।
पञ्चामृत से स्नान करायें-: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, पञ्चामृतस्नानं सर्पयामि ।
गन्धोदक-स्नान करायें-: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, गन्धोदकस्नानं समर्पयामि।
शुद्धोदक-स्नान करायें -: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, स्रानान्ते शुद्धोदकस्नानं समर्पयामि।
आचमन के लिये जल चढ़ायें-: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः,शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि।
वस्त्र अर्पण करें -: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, वस्त्रं समर्पयामि ।
आचमन के लिये जल चढ़ायें -: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, वस्त्रान्ते आचमनीयं जलं समर्पयामि।
यज्ञोपवीत अर्पण करें -: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, यज्ञोपवीतं समर्पयामि ।
आचमन के लिये जल चढ़ायें-: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।
उपवस्त्र अर्पण करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, उपवस्त्रं समर्पयामि।
आचमन के लिये जल चढ़ायें-: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।
चन्दन अर्पण करें ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, चन्दनं समर्पयामि ।
अक्षत अर्पण करें-: ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, अक्षतान समर्पयामि।
पुष्पमालाअर्पण करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, पुष्पं पुष्पमाल्यम समर्पयामि।
नानापरिमल-द्रव्य अर्पण करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, नाना परिमलद्रव्याणि सपर्पयामि।
सुगन्धित द्रव्य अर्पण करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः,सुगन्धितद्रव्यं समर्पयामि ।
धूप दिखाएं-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, धूपमघ्रापयामि।
दीप दिखाएं-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, दीपं दर्शयामि।
(हस्तप्रक्षालन) धूप-दीप दिखाकर हाथ धो
लें।
निवेद्य चढ़ाएं-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, सर्वविधं नैवेद्य निवेदयामि
ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, नैवेद्यान्ते आचमनीयं जलम्, मध्ये पानीयं जलम्, उत्तरापोऽशने
मुख प्रक्षालनार्थे, हस्तप्रक्षालनार्थे च जलं समर्पयामि ।
करोद्वर्तन अर्पण करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, करोद्वर्तनं समर्पयामि ।
फल अर्पण करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, ऋतुफलानि समर्पयामि।
ॐ अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, फलान्ते आचमनीयं जलम्, मध्ये पानीयं जलम्, उत्तरापोऽशने
मुख प्रक्षालनार्थे, हस्तप्रक्षालनार्थे च जलं समर्पयामि ।
ताम्बूल अर्पण करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, ताम्बूलं समर्पयामि।
दक्षिणा अर्पण करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्य दक्षिणां समर्पयामि ।
आरती करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, आरार्तिकं समर्पयामि।
पुष्पाञ्जलि समर्पित करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, पापुष्पाञ्जलिं समर्पयामि ।
प्रदक्षिणा करें-: ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, प्रदक्षिणां समर्पयामि।
हाथ में गन्ध,अक्षत और पुष्प लेकर प्रार्थना
करें-:
ॐ
अधिदेवताभ्यो प्रत्यधिदेवताभ्यो नमः, ॐ वरुणाद्यावाहितदेवताभ्यो नमः,प्रार्थना पूर्वकं
नमस्कारान् समर्पयामि॥
समर्पण करें-:
कृतेन अनेन पूजनेन ॐ
अधिदेवताभ्यो प्रत्यधि देवताभ्यो नमः,प्रीयन्तां न मम॥