नवग्रह पूजन विधि
मंत्र से सूर्य का आह्वान करें -
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् ॥
जपा कुसमसंकाशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्वपापघ्नं सूर्यमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः कलिंगदेशोद्भव कश्यपगोत्र रक्तवर्ण भो सूर्य! इहागच्छ, इहतिष्ठ ‘’ॐ सूर्याय नमः, श्री सूर्यमावाहयामि स्थापयामि च ।
निम्न मंत्र से चंद्र का आह्वान करें-
ॐ इमं देवा असनप्न(गुँ) सुवध्वं महते क्षत्राय महते ज्येष्ठ्याय महते जानराज्यायेन्द्रस्येंद्रियाय ।
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्मणाना(गुँ); राजा ॥
दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् ।
ज्योत्स्नापतिं निशानाथं सोममावाहयाम्यहम ॥
ॐ भूर्भुवः स्वः यमुनातीरोद्धव आत्रेय गोत्र शुक्लवर्ण भो सोम! इहागच्छ, इहतिष्ठ ‘’ ॐ सोमाय नमः, सोममावाहयामि, स्थापयामि च ।
निम्न मंत्र से मंगल का आह्वान करें-
ॐ अग्निर्मूर्धा दिवः कुकुत्पतिः पृथिव्या अयम्। अपा(गुँ)श्रेता(गुँ)सि जिन्वति ॥
धरणीगर्भसम्भूतं विद्युत्तेजस्समप्रभम् ।
कुमारं शक्तिहस्तं च भौममावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अवन्तिदेशोद्भव भारद्वाजगोत्र रक्तवर्ण भो भौम! इहागच्छ, इहतिष्ठ ॐ भौमाय नमः, भौममावाहयामि स्थापयामि च ।
निम्न मंत्र से बुध देवता का आह्वान करें-
ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते स(गुँ)जेथामयं च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन् विश्वे देवा जयमानश्च सीदत ॥
प्रियंगकलिकाभासं रूपेणाप्रतिमं बुधम ।
सौम्यं सौम्यगुणोपेतं बुधमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः मगधदेशोद्भव आत्रेयगोत्र पीतवर्ण भो बुध! इहागच्छ, इहतिष्ठ ‘’ ॐ बुधाय नमः, बुधमावाहयामि, स्थापयामि च ।
निम्न मंत्र से बृहस्पति देवता का आह्वान करें-
ॐ बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु। यद्दीदयच्छवसः ऋतप्रजात् तदस्मासु द्रविणं धेहि चित्रम् ॥ उपयामगृहीतोऽसि बृहस्पतये त्वैष ते योनि बृहस्पतये त्व ।
देवानां च मनीनां च गुरुं काञ्चनसन्निभम् ।
वंदनीयं त्रिलोकानां गुरुमावाहयाम्यंहम् ॥
ॐ भूर्भुवः स्वः सिन्धुशोद्धव आडिगंरसगोत्र पीतवर्ण भी गुरो! इहागच्छ, इहतिष्ठ ‘’ॐ बृहस्पतये नमः, बृहस्पतिमावाहयामि स्थापयामि च ।
निम्न मंत्र से शुक्र भगवान का आह्वान करें-
ॐ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत्क्षत्रं पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपान(गुँ) शुक्रमन्धस इंद्रस्येद्रियमिदं पयोऽमृतं मधु ॥
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं भार्गवमावाहयाम्यमहम् ॥
ॐ भूर्भुवः स्वः भोजकटदेशोद्धव भार्गवगोत्र शुक्लवर्ण भो शुक्र! इहागच्छ, इहतिष्ठ ‘’ ॐ शुक्राय नमः, शुक्रमावाहयामि स्थापयामि च ।
निम्न मंत्र से शनि भगवान का आह्वान करें-
ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोरपि स्रवन्तु नः ।
नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसम्भूतं शनिमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः सौराष्ट्रदेशोद्धव कश्यपगोत्र कृष्णवर्ण भो शनैश्चर! इहागच्छ, इहतिष्ठ ‘’ ॐ शनैश्चराय नमः, शनैश्चरमावाहयामि, स्थापयामि च ।
निम्न मंत्र से राहु देव का आह्वान करें-
ॐ कया नश्चित्र आ भुवदूती सदावधः सखा । कया शचिष्ठया वृता ॥
अर्धकायं महावीर्यं चंद्रादित्यविमर्दनम् ।
सिंहिकागर्भसम्भूतं राहुमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः राठिनपुरोद्धव पैठीनसगोत्र कृष्णवर्ण भो राहो! इहागच्छ, इहतिष्ठ ‘’ ॐ राहवे नमः, राहुमावाहयामि स्थापयामि च ।
निम्न मंत्र से केतु देव का आह्वान करें-
ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्धिरजायथाः ॥
पलाशधूम्रसगांश तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं केतु मावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः अंतवेदिसमुद्धव जैमिनिगोत्र धूम्रवर्ण भी केतो! इहागच्छ, इहतिष्ठ ‘’ॐ केतवे नमः, केतुमावाहयामि स्थापयामि च ।
नवग्रहों के आह्वान और स्थापना के बाद हाथ में अक्षत लेकर निम्न मंत्र उच्चारित करते हुए नवग्रह मंडल में प्रतिष्ठा के लिए अर्पित करें।
ॐ मनो जूर्तिर्ज्षतामाज्यस्य बृहस्पतिर्यज्ञमिमं ततनोत्वरिष्टं यज्ञ(गुँ)सममं दधातु।
विश्वे देवास इह मादयन्तामो3म्प्रतिष्ठा ॥
अस्मिन नवग्रहमंडले आवाहिताः सूर्यादिनवग्रहादेवाः सुप्रतिष्ठिता वरदा भवन्तु ।
अब षोडशोपचार द्वारा नवग्रह की पूजा करें
नवग्रह को पाद्य, अर्घ्य. आचमनीय, स्नानीय और पुनराचमनीय हेतु जल अर्पण करें.
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्।।
एतानि पाद्यार्घ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि नवग्रह मंडलायै नमः।
नवग्रह को दूध से स्नान कराएं
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्। पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, पयः स्नानं समर्पयामि नमो नमः।
नवग्रह को दही से स्नान कराएं
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्। दध्यानीतं मया देव! स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, दधिस्नानं समर्पयामि नमो नमः।।
नवग्रह को घी से स्नान कराएं
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्। घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, घृतस्नानं समर्पयामि नमो नमः
नवग्रह मंडलायै नमः को मधु (शहद) से स्नान कराएं
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु। तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, मधुस्नानं समर्पयामि।
नवग्रह को शर्करा (शक्कर ) से स्नान कराएं
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्। मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, शर्करास्नानं समर्पयामि।
नवग्रह को पञ्चामृत से स्नान कराएं
पञ्चामृतं मयानीतं पयो दधि घृतं मधु। शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, पञ्चामृतस्नानं समर्पयामि।
नवग्रह को गन्धोदक जल से स्नान कराएं
मलयाचलसम्भूतचन्दनेन विनिःसृतम् । इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम ।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नम:, गन्धोदकस्नानं समर्पयामि ।
नवग्रह को शुद्धोदक जल से स्नान कराएं
गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धुकावेरि स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, शुद्धोकस्नानं समर्पयामि।
नवग्रह को आचमन कराएं -
शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।
नवग्रह को वस्त्र अर्पण करें
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्। देहालङ्करणं वस्त्रामतः शान्तिं प्रयच्छ मे।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, वस्त्रां समर्पयामि। वस्त्रान्ते आचमनीयं जलं समर्पयामि।
वस्त्र के बाद आचमन के लिए जल दे।
नवग्रह को उपवस्त्र अर्पण करें
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति। उपवस्त्रं प्रयच्छामि सर्वकर्मापकारकम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, उपवस्त्रं समर्पयामि। उपवस्त्रांते आचमनीयं जलं समर्पयामि। (आचमन के लिए जल दे)
नवग्रह को यज्ञोपवीत अर्पण करें
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्। उपवीतं मया दत्तं गृहाण परमेश्वर ।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, यज्ञोपवीतं समर्पयामि। यज्ञोपवीतन्ते आचमनीयं जलं समर्पयामि। (आचमन के लिए जल दे)
नवग्रह को चन्दनलेपनं करें
श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम्। विलेपनं सुरश्रेष्ठ ! चन्दनं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, चन्दनानुलेपनं समर्पयामि।
नवग्रह को अक्षत अर्पण करें
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः। मया निवेदिता भक्त्या गृहाण परमेश्वर।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, अक्षतान् समर्पयामि।
नवग्रह को पुष्पमाला अर्पण करें
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो। मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, पुष्पमालां समर्पयामि।
नवग्रह को दूर्वा अर्पण करें
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्। आनीतांस्तव पूजार्थं गृहाण गणनायक !।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, दूर्वाङ्कुरान् समर्पयामि।
नवग्रह को सिन्दूर अर्पण करें
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्। शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, सिन्दूरं समर्पयामि।
नवग्रह को नाना परिमल द्रव्य अर्पण करें
अबीरं च गुलालं च हरिद्रादिसमन्वितम्। नाना परिमलं द्रव्यं गृहाण परमेश्वर!।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, नानापरिमलद्रव्याणि समर्पयामि।
नवग्रह को सुगन्धिद्रव्य अर्पण करें
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्। गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, सुगन्धिद्रव्यं समर्पयामि।
नवग्रह को धूप दिखाएं
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः। आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, धूपमाघ्रापयामि।
नवग्रह को दीप दिखाएं
साज्यं च वर्तिसंयुक्तं वद्दिना योजितं मया। दीपं गृहाण देवेश त्रौलौक्यतिमिरापहम्।।
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने। त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, दीपं दर्शयामि।
ॐ हृषीकेशाय नमः’ बोल कर हाथ धो ले (हस्तप्रक्षालन)
नवग्रह को नैवेद्य अर्पण करें
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च। आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, नैवेद्यं निवेदयामि। नैवेद्यान्ते आचमनीयं जलं समर्पयामि।
नवग्रह को ऋतुफल अर्पण करें
इदं फलं मया देव स्थापितं पुरतस्तव। तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, ऋतुफलानि समर्पयामि।
फलान्ते आचमनीयं जलं समर्पयामि। जल अर्पित करे। ॐ मध्ये-मध्ये पानीयं समर्पयामि। उत्तरापोशनं समर्पयामि हस्तप्रक्षालनं समर्पयामि मुखप्रक्षालनं समर्पयामि।
नवग्रह को करोद्वर्तन अर्पण करें
चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्। करोद्वर्तनकं देव गृहाण परमेश्वर।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, करोद्वर्तनकं चन्दनं समर्पयामि।
नवग्रह को ताम्बूल अर्पण करें
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि। (इलायची, लौंग-सुपारी के साथ ताम्बूल अर्पित करे।)
दक्षिणा अर्पण करें
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः। अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि। (द्रव्य दक्षिणा समर्पित करे।)
नवग्रह की कर्पूर द्वारा आरती करें -
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्। आरार्तिकमहं कुर्वे पश्य मे वरदो भव।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, अरार्तिकं समर्पयामि।
(कर्पूर की आरती करें, आरती के बाद जल गिरा दें।)
नवग्रह को पुष्पांजलि अर्पण करें
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च। पुष्पाञ्जलिर्मया दत्तं गृहाण परमेश्वर।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, पुष्पाञ्जलिं समर्पयामि। (पुष्पाञ्जलि अर्पित करे।)
नवग्रह की प्रदक्षिणा करें
यानि कानि च पापानि जन्मान्तरकृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे।।
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, प्रदक्षिणां समर्पयामि।
नवग्रह की प्रार्थना करें
ॐ ब्रह्मा मुरारिस्त्रिपुरान्तकारी
भानुः शशी भूमिसतो बुधश्च गुरुश्च शुक्रः शनि राहुकेतवः सर्वेग्रहाः शांतिकरा भवन्तु ॥ सूर्यः शौर्यमथेन्दुरुच्चपदवीं सन्मंगलं मंगलः सद्बुद्धिं च बुधो गुरुश्च गुरुतां शुक्र सुखं शं शनिः । राहुर्बाहुबलं करोतु सततं केतुः कुलस्यो नतिं नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनकूला ग्रहाः ॥
ॐ भूर्भुवः स्वः नवग्रह मंडलायै नमः, प्रार्थना पूर्वकम् नमस्कारम् प्रदक्षिणां समर्पयामि।
इति नवग्रह पूजन संपूर्ण